खण्डः ‘क’ (अपठित-अवबोधनम्)

1. अधोलिखितं गद्यांशं पठित्वा निम्नाङ्कितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत –

बाल्यकाले विशेषतो बालकस्योपरि संसर्गस्य प्रभावो भवति। बालको यादृशैः बालकैः सह सङ्गतिं करिष्यति तादृशः एव भविष्यति। अतः बाल्यकाले दुर्जनैः सह संङ्गतिः कदापि न करणीया। दुर्जनानां संसर्गेण बहवः हानयः भवन्ति। यथा दुर्जनसंसर्गेण मनुष्यः असद्वृतः दुर्विचारयुक्तः च भवति तस्य बुद्धिः दूषिता भवति। सः दुर्व्यसनग्रस्तो भवति, अतः तस्य शरीरं क्षीणं दुर्बलं च भवति। कीर्तिः नश्यति। अतः स्वयशोवृद्धये, ज्ञानवृद्धये, सुखस्य शान्तेश्च प्राप्तये सर्वैरपि सदा सत्सङ्गतिः करणीया, दुर्जनसङ्गतिश्च हेया।

प्रश्नाः –

(क) बाल्यकाले बालकस्योपरि कस्य प्रभावो भवति ?
(ख) कैः सह सङ्गतिः कदापि न करणीया ?
(ग) दुर्जनसंसर्गेण मानवस्य बुद्धिः कीदृशी भवति ?
(घ) कदा दुर्जनैः सह सङ्गतिः कदापि न करणीया ?
(ङ) दुर्जनसंसर्गेण काः हानयः भवन्ति ?

खण्डः ‘ख’ (रचनात्मकं – कार्यम्)

2. विषयमेकमधिकृत्य लघुनिबन्धं संस्कृतभाषया लिखत –

(क) स्वच्छतायाः महत्त्वम्।
(ख) मम विद्यालयः।
(ग) मम प्रियः कविः (कालिदासः)।

खण्डः ‘ग’ (पठित – अवबोधनम्)

3. अधोलिखितगद्यांशस्य हिन्दीभाषया सरलार्थं कार्यम् –

(क) भवादृशा एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हिमनसि विशन्ति सुखेनोपदेशगुणाः। हरति अतिमलिनमपि दोषजातं गुरूपदेशः गुरूपदेशश्च नाम अखिलमलप्रक्षालनक्षमम् अजलं स्नानम्। विशेषेण तु राज्ञाम्। विरला हि तेषामुपदेष्टारः। राजवचनमनुगच्छति जनो भयात्।

अथवा

(ख) ततो ब्राह्मणस्तानि रत्नानि यावदागतस्तावद्यज्ञसमाप्तिर्जाता। गृहीत्वा उज्जयिनी राजावभृथस्नानं कृत्वा सर्वानर्थिजनान् परिपूर्णमनोरथानकरोत्। ब्राह्मणो राजानं
दृष्ट्वा रत्नान्यर्पयित्वा प्रत्येकं तेषां गुणकथनमकथयत्।

4. अधोलिखितश्लोकस्य हिन्दीभाषया सरलार्थं कार्यम् –

(क) गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्। गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः।।

अथवा

(ख) सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः।।

5. अधोलिखितासु सूक्तिषु मात्र द्वयोः सूक्तयोः भावार्थं हिन्दीभाषया लेख्यम् –
(क) क्रूरोऽयं किन्तुमध्ये प्रविश्य सर्वं विनाशयति।
(ख) यो जन्म दत्तवान्, स जीवितुमधिकारमपि दत्तवान्।
(ग) कार्यं वा साधयेयम् देहं वा पातयेयम्।
(घ) विगुणः कार्षापणः, कुत्सितश्च पुत्रः संकटे कदाचिदुपयुक्तो भवेत्।

6. अधोलिखितं गद्यांशं पठित्वा अधस्तनानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लेखितव्यानि –
पदे पदे दोधूयमानाः वृक्षशाखाः सम्मुखमाघ्नन्ति,
परं दृढ़संकल्पोऽयं सादी न स्वकार्याद् विरमति। प्रश्नाः –

(क) पदे पदे के सम्मुखमाघ्नन्ति ?
(ख) ‘स्वकार्याद्’ इति पदे का विभक्तिः ?

7. अधोलिखितं श्लोकं सम्पठ्य अधस्तनयोः प्रश्नयोः उत्तराणि संस्कृतभाषया लेखनीयानि –
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
सः यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।

प्रश्नाः –

(क) लोकः कम् अनुवर्तते ?
(ख) ‘सः’ इति पदे का विभक्तिः किं वचनञ्च ?

8. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषितः।
(ख) न परिचयं रक्षति।

खण्डः ‘घ’ (संस्कृतसाहित्यस्य-परिचयः)

9. श्रीचन्द्रशेखरवर्मणः अथवा महाकवेः कालिदासस्य संक्षिप्तपरिचयः
हिन्दीभाषया लेखितव्यः।

10. अधस्तनयोः पुस्तकयोः मध्ये एकस्य संक्षिप्तपरिचयः हिन्दीभाषया
लेखनीयः –

(i) प्रबन्धमञ्जरी।
(ii) रघुवंशम्।

खण्डः ‘ङ’ (छन्दोऽलङ्कार – परिचयः)

11. अधोनिर्दिष्टछन्दस्सु मात्रद्वयोः संस्कृतभाषया लक्षणोदाहरणौ लिखत –

(क) उपेन्द्रवज्रा
(ख) मन्दाक्रान्ता
(ग) वंशस्थम्
(घ) शिखरिणी

12. अधः प्रदत्तेषु अलङ्कारेषु द्वयोरेव लक्षणोदाहरणौ संस्कृतभाषया लिखत –

(क) अनुप्रासः
(ख) उपमा
(ग) श्लेषः
(घ) व्याजस्तुतिः

खण्डः ‘च’ (अनुप्रयुक्त – व्याकरणम्)

13. ‘गुणसन्धेः’ अथवा ‘विसर्गसन्धेः’ परिभाषां सोदाहरणं हिन्दीभाषया लिखत

14. ‘करणकारकस्य’ अथवा ‘अधिकरणकारकस्य’ परिभाषां सोदाहरणं हिन्दीभाषया लिखत।

15. ‘द्वन्द्वसमासस्य’ अथवा ‘अव्ययीभावसमासस्य’ परिभाषां सोदाहरणं हिन्दीभाषया लिखत।

खण्ड: ‘छ’ [ बहुविकल्पीय – वस्तुनिष्ठप्रश्नाः ]

16. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत –

(क) ‘ह्येवंविधम्’ इति पदे कः सन्धिविच्छेदः ?

(i) ह्य + एवंविधम्
(ii) हि + एवंविधम्
(iii) ह्यः + एवंविधम्
(iv) ह्य + एवंविधः

(ख) ‘अनेजत् + एकम्’ इति पदे किं सन्धिपदम् ?

(i) अनेजदेकम्
(ii) अनेजरएकम्
(iii) अनेजेकम्
(iv) अनेजतेकम्

(ग) ‘अन्यथेतः’ इति पदे कः सन्धिः ?

(i) यण्सन्धिः
(ii) गुणसन्धिः
(iii) दीर्घसन्धिः
(iv) अयादिसन्धिः

(घ) ‘वरतन्तुशिष्यः’ इति पदे विग्रहोऽस्ति ?

(i) वरतन्तुः शिष्यः
(ii) वरतन्तवः शिष्यः
(iii) वरतन्तोः शिष्यः
(iv) वरतन्तवे शिष्यः

(ङ) ‘अनवाप्य’ इति पदे कः समासः ?

(i) अव्ययीभावः
(ii) बहुव्रीहिसमासः
(iii) नञ् तत्पुरुषः
(iv) द्वन्द्वसमासः

(च) ‘गुणानां लुब्धाः’ इति विग्रहे किं समस्तपदम् ?

(i) गुणलुब्धाः
(ii) गुणाः लुब्धाः
(iii) गुणे लुब्धाः
(iv) गुणालुब्धाः

17. लघूत्तरात्मक प्रश्नाः –

(i) ‘किम्’ स्त्रीलिङ्गे तृतीयाविभक्तौ एकवचने रूपम् किम् ?
(ii) ‘महाद्रुमेण’ इति पदे का विभक्तिः ?
(iii) ‘आसीत्’ इति पदे कः धातुः ?
(iv) ‘अकथयत्’ इति पदे कः पुरुषः ?
(v) ‘दत्त्वा’ इति पदे कः प्रत्ययः ?
(vi) ‘त्यज् + क्त्वा’ अनयोः संयोगे किं रूपम् ?
(vii) ‘स्वाहा’ इति उपपदयोगे का विभक्तिः ?
(viii) ‘दुष्कृतम्’ इति पदस्य विलोमपदं किम् ?
(ix) ‘विद्वान्’ इति पदस्य विलोमपदं लिखत।
(x) ‘पृथिवी’ इति पदस्य समानार्थकपदमस्ति ?

Leave a Reply

Your email address will not be published. Required fields are marked *